|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.170. अध्यायः 170
Mahabharata - Drona Parva - Chapter Topics
नकुलकृपाभ्यां शकुनिशिखण्डिपराजयः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्चय उवाच। 7-170-0x(4719)(52729)
नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव।
अभ्ययात्सौबलः क्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत्॥ 7-170-1(52730)
कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः॥ 7-170-2(52731)
यथैव नकुलो राजञ्शरवर्षाण्यमुञ्चत।
तथैव सौबलश्चापि शिक्षां सन्दर्शयन्युधि॥ 7-170-3(52732)
तावुभौ समरे शूरौ शरकण्टकिनौ तदा।
व्यराजेतां महाराज श्वाविधौ शललैरिव॥ 7-170-4(52733)
रुक्मपुङ्खैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ।
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे॥ 7-170-5(52734)
तपनीयनिभौ चित्रो कल्पवृक्षाविव द्रुमौ।
किंशुकाविव चोत्फुल्लौ प्रकाशेते रणाजिरे॥ 7-170-6(52735)
तावुभौ समरे शूरौ शरकण्टकिनौ तदा।
व्यराजेतां महारान्कण्टकैरिव शाल्मली॥ 7-170-7(52736)
सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ।
क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम्॥ 7-170-8(52737)
श्यालस्तु तव सङ्क्रुद्धो माद्रीपुत्रं हसन्निव।
कर्णिनैकेन विव्याध हृदये निशितेन ह॥ 7-170-9(52738)
नकुलस्तु भृशं विद्वः श्यालेन तव धन्विना।
निषसाद रथोपस्थे कश्मलं चाविशन्महत्॥ 7-170-10(52739)
अत्यन्तवैरिणां दृप्तं दृष्ट्वा शत्रुं तथाऽऽगतम्।
ननाद शकुनी राजंस्तपान्ते जलदो यथा॥ 7-170-11(52740)
प्रतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः।
अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः॥ 7-170-12(52741)
सङ्क्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ।
पुनश्चैनं शतेनैव नाराचानां स्तनान्तरे॥ 7-170-13(52742)
अथास्य सशरं चापं मृष्टिदेशेऽच्छिनत्तदा।
ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत्॥ 7-170-14(52743)
विशिखेन च तीक्ष्णेन पीतेन निशितेन च।
ऊरू निर्भिद्य चैकेन नकुलः पाण्डुनन्दनः।
श्येनं सपक्षं व्याधेन पातयामास तं तदा॥ 7-170-15(52744)
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्।
ध्वजयष्टिं परिक्लिश्य कामुकः कामिनीं यथा॥ 7-170-16(52745)
तं विसंज्ञं निपतितं दृष्ट्वा श्यालं तवानघ।
अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात्॥ 7-170-17(52746)
ततः सञ्चुक्रुशुः पार्था ये च तेषां पदानुगाः॥ 7-170-18(52747)
निर्जित्य च रणे शत्रुं नकुलः शत्रुतापनः।
अब्रवीत्सारथिं क्रुद्धो द्रोणानीकायं मां वह॥ 7-170-19(52748)
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य सारथिः।
प्रायात्तेन तदा राजन्यत्र द्रोणो व्यवस्थितः॥ 7-170-20(52749)
शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशाम्पते।
कृपः शारद्वतो यत्तः प्रत्यगच्छत्स वेगितः॥ 7-170-21(52750)
गौतमं द्रुतमायान्तं द्रोणानीकमरिन्दमम्।
विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव॥ 7-170-22(52751)
तमाचार्यो महाराज विद्धा पञ्चभिराशुगैः॥
पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव॥ 7-170-23(52752)
महद्युद्धं तयोरासीद्धोररूपं भयानकम्॥
यथा देवासुरे युद्धे शम्बरामरराजयोः॥ 7-170-24(52753)
शरजालावृतं व्योम चक्रतुस्तौ महारथौ।
मेघाविव तपापाये वीरौ समरदुर्मदौ।
प्रकृत्या घोररूपं तदासीद्धोरतरं पुनः॥ 7-170-25(52754)
रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम्।
कालरात्रिनिभा ह्यासीद्धोररूपा भयानका॥ 7-170-26(52755)
शिखण्डी तु महाराज गौतमस्य महद्धनुः।
अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा॥ 7-170-27(52756)
तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम्।
स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम्॥ 7-170-28(52757)
तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः।
सापतन्मेदिनीं कृत्ता भासयन्ती महाप्रभा॥ 7-170-29(52758)
अथान्यद्धनुरादाय गौतमो रथिनां वारः।
प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम्॥ 7-170-30(52759)
स च्छाद्यमानः समरे गौतमेन यशस्विना।
न्यषीदत रथोपस्थे शिखण्डी रथिनां वरः॥ 7-170-31(52760)
सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि।
आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत॥ 7-170-32(52761)
विमुखं तु रणे दृष्ट्वा याज्ञसेनिं महारथम्।
पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः॥ 7-170-33(52762)
तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम्।
महत्या सेनया सार्धं ततो युद्धमवर्तत॥ 7-170-34(52763)
रथानां च रणे राजन्नन्योन्यमभिधावताम्।
बभूव तुमुलः शब्दो मेघानां गर्जतामिव॥ 7-170-35(52764)
द्रवतां सादिनां चैव गजानां च विशाम्पते।
अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ॥ 7-170-36(52765)
पत्तीनां द्रवतां चैव पादशब्देन मेदिनी।
अकम्पत महाराज भयत्रस्तेव चाङ्गना॥ 7-170-37(52766)
रथिनो रथमारुह्य प्रद्रुता वेगवत्तरम्।
अगृह्णन्बहवो राजञ्शलभान्वायसा इव॥ 7-170-38(52767)
तथा गजान्प्रभिन्नांश्च सम्प्रभिन्ना महागजाः।
तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत॥ 7-170-39(52768)
सादी सादिनमासाद्य पत्तयश्च पदातिनम्।
समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः॥ 7-170-40(52769)
धावतां द्रवतां चैव पुनरावर्ततामपि।
बभूव तत्र सैन्यानां शब्दः सुविपुलो निशि॥ 7-170-41(52770)
दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु।
अदृश्यन्त महाराज महोल्का इव खाच्च्युताः॥ 7-170-42(52771)
सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता।
दिवसप्रतिमा राजन्बभूव रणमूर्धनि॥ 7-170-43(52772)
आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति।
तथा नष्टं तमो घोरं दीपैर्दीप्तैरितस्ततः॥ 7-170-44(52773)
दिवं च पृथिवीं चैव दिशश्च प्रदिशस्तथा।
रजसा तमसा व्याप्ता द्योतिताः प्रभया पुनः॥ 7-170-45(52774)
अस्त्राणां कवचनानां च मणीनां च महात्मनाम्।
अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः॥ 7-170-46(52775)
तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे।
न किञ्चिद्विदुरात्मानमयमस्मीति भारत॥ 7-170-47(52776)
अवधीत्समरे पुत्रं पिता भरतसत्तम।
पुत्रश्च पितरं मोहात्सखायं च सखा तथा।
स्वस्रीयं मातुलश्चापि स्वस्रीयश्चापि मातुलम्॥ 7-170-48(52777)
स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम्।
निर्मर्यादमभूद्युद्धं रात्रौ भीरुभयानकम्॥ ॥ 7-170-49(52778)
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे सप्तत्यधिकशततमोऽध्यायः॥ 170 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-169-15 ऊरू इति। मण्डलं चरतः शकुनेर्द्वावूरू एकेनैव बाणेन बिभेद यथा खे श्येनां पक्षाभ्यां सहितं वामदक्षिणगामिनं पातयेदेवमिति लुप्तोपमा। व्याधेन बाणेन। विध्यत्यनेनेति व्याधो बाणः॥ 5-170-16 परिक्लिश्य क्लेशेन ध्वजयष्टिं श्रित इति शेषः॥ 5-170-38 प्रदुता रथिनो वेगवत्तरं रथमारुह्य तत्पतिमगृह्णन्॥ 5-170-170 सप्तत्यधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|